प्रथमोध्यायः
-
प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।
नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥
-
अधीत्येदं तथा शास्त्रं नरो जानाति सत्तमः ।
धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥
-
तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया ।
यो हि विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते ॥
-
मूर्खशिष्योपदेशेण दुष्टस्त्री भरणेन च ।
दुःखितैः संप्रयोगेण पण्डितोप्यवसीदति ॥
-
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥
-
आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
-
आपदर्थे धनं रक्षतां श्रीमतां कुत आपदः।
कदाचिच्चलते लक्ष्मीः संचितोपि विनश्यति ॥
-
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥
-
धनिकः श्रोत्रियो राजा नदी वैद्यश्च पण्डितः ।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥
-
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥
-
जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे
।
मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥
-
आतुरे व्यसने प्राप्ते दुर्भिक्षे शतृसंकटे ।
राजद्वारे स्मशाने च यस्तिष्ठति स बान्धवः ॥
-
यो ध्रुवाणि परित्यज्य आध्रुवम् परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति आध्रुवं नष्टमेव च ॥
-
वरयेत् कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।
रूपवतीं न नीचस्य विवाहः सदृशे कुले ॥
-
नखीनां च नदीनां च शृङ्गीणां शस्त्रधारिणाम् ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥
-
विषादप्यमृतं ग्राह्यममिध्यादपि काञ्चनम् ।
नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥
-
स्त्रीणां द्विगुण आहारो बुद्धिस्तासां चतुर्गुणा ।
साहसं शड्गुणं चैव कामोष्टगुण उच्यते ॥
द्वितीयोध्यायः
-
अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।
अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥
-
भोज्यं भोजनशक्तिश्च रति शक्तिर्वराङ्गना ।
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥
-
यस्य पुत्रो वशीभूतो भार्या पन्थानुगामिनी ।
विभवे यश्च संतुष्टस्तस्य स्वर्ग इहैव हि ॥
-
ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः ।
तन्मित्रं यस्य विश्वासः सा भार्या या तु निर्वृतिः ॥
-
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनं ।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयॊमुखम् ॥
-
न विश्वसेत् कुमित्रे च मित्रे चापि न विश्वसेत् ।
कदाचित् कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥
-
मनसा चिन्तितं कार्यं वाचा नैव प्रकाषयेत् ।
मत्रेण रक्षयेत् गूढं कार्ये चापि नियोजयेत् ॥
-
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।
कष्टात् कष्टतरं चैव परगेहनिवासनं ॥
-
शैले शैलेन माणिक्यं मौक्तिकं न गजे गजे ।
साधवो न हि सर्वत्र चन्दनं न वने वने ॥
-
पुत्राश्च विविधैश्शीलैर्नियोज्याः सततं बुधैः ।
नीतिज्ञा शीलसम्पन्ना भवन्ति कुल पूजिताः ॥
-
माता स्त्रुः पिता वैरी याभ्यां बाला न पाठिताः ।
सभा मध्ये न शॊभन्ते लंस मध्ये बको यथा ॥
-
लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्मात्पुत्रं च शिष्यं च नाडयेन्न तु लालयेत् ॥
-
श्लोकेन वा तदर्धेन तदर्धाक्षरेन वा ।
अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मभिः ॥
-
कान्तावियोतः स्वजनापमानं
ऋणस्यशेषं कुनृपस्य सेवा ।
दारिद्र्यभावो विमुखं च मित्रं
विनाग्नितैते प्रदहन्ति कायम् ॥
-
नदीतीरे च ये वृक्षाः परगेहेषु कामिनी ।
मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयः ॥
-
बलं विद्या च विप्राणां राज्ञा सैन्यं बलं तथा ।
बलं वित्तं च वैश्यानां शूद्राणां आरिचर्यकं ॥
-
निर्धनं पुरुषं वेष्या पाजा भग्नं नृपं त्यजेत् ।
खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागता गृहम् ॥
-
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।
प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥
-
दुराचारी दुरादृष्टिर्दुरावासी च दुर्ज्जनः ।
यन्मैत्री क्रियते पुंभिर्नरः शीघ्रं विनश्यति ॥
-
समाने शोभते प्रीतिर्राज्ञि सेवा च शोभते ।
वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥
तृतीयोध्यायः
-
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥
-
आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥
-
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् ।
व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत् ॥
-
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
सर्पो दंशति कलेन दुर्जनस्तु पदे पदे ॥
-
एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।
आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥
-
प्रलये भिन्नमर्यादा भवन्ति किल सागराः ।
सागरा भेदमिच्चन्ति प्रलये चापि साधवः ॥
-
मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।
भिनत्ति वाक्यशल्येनादृष्टः कण्ठशो यथा ॥
-
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥
-
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ।
विद्यारूपं कुरूपाणां क्षमारूपं तपस्विनाम् ॥
-
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
-
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।
मौने च कलहो नास्ति नास्ति जागरिते भयम् ॥
-
अति रूपेण वै सीता अति गर्वेण रावणः ।
अतिदानाद्बलिर्बद्धो अति सर्वत्र वर्जयेत् ॥
-
कोहि भारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥
-
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिन ।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥
-
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥
-
किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः ।
वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥
-
लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु शोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥
-
उपसर्गेन्यचक्रे च दुर्भिक्षे च भयावहे ।
असाधुजनसम्पर्के यः पलायति स जीवति ॥
-
धर्मार्थकाममोक्षाणां यस्य कोऽपि न विद्यते ।
जन्म जन्मनि मर्त्येषु मरणं तस्य केवलम् ॥
-
मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।
दम्पत्योः कलहो नास्ति तत्र श्रीः स्वयमागता ॥
चतुर्थोऽध्यायः
-
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्तस्यैव देहिनः ॥
- साधुभ्यस्ते निवर्तन्ते पुत्रा वित्राणि बान्धवाः ।
ये च तैस्सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥
- दर्शनध्यानसंस्पर्शैः मत्स्यी कूर्मी च पक्षिणी ।
शिशुं पालयते नित्यं तथा सज्जनसंगतिः ॥
- यावत्स्वस्थो ह्ययं देहो यवन्मृत्युश्च दूरतः ।
तावदात्माहितं कुर्यात्प्राणान्ते किं करिष्यति ॥
- कामधेनुफला विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥
-
वरमेको गुणी पुत्रो निर्गुणैश्च शतैरपि ।
एकश्चन्द्रतमो हन्ति न च तारास्सहस्रशः ॥
- मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः ।
मृतः स चाल्पदुःखाय यवज्जीवं जडो दहेत् ॥
- कुग्राम वासः कुलहीनसेवा
कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या
विनाग्निना षट्प्रदहन्ति कायम् ॥
-
किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥
-
संसारतापदग्धानां त्रयो विश्रान्तिहेतवः ।
अपत्यं च कलत्रं च सतां संगतिरेव च ॥
-
सकृज्जल्पन्ति राजानस्सकृज्जल्पन्ति पण्डिताः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥
-
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभिर्रणः ॥
-
सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता ।
सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥
-
अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥
-
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् ।
दिरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥
-
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् ।
त्यजेत्क्रोधमुखीं भार्यां निस्स्नेहान् बान्धवान्स्त्यजेत् ॥
-
अध्वा जरा मनुष्याणां वाजिनां बन्धनं जरा ।
अमैथुनं जरा स्त्रीणां वस्त्राणामतपो जरा ॥
-
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
-
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरस्स्मृताः ॥
-
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
पत्नीमाता स्वमाता च पञ्चैता मातरस्स्मृताः ॥
-
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥
पञ्चमोऽध्यायः
-
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥
-
यथा चतुर्भिः कनकं परीक्ष्यते
निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते
त्यागेन शीलेन गुणेन कर्मणा ॥
-
तावत् भयेषु भीतव्यं यावत् भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमशंकया ॥
-
एकोदरसमुद्भूता एकनक्षत्रजातकाः ।
न भवन्ति समाश्शीले यथा बदरिकण्टकाः ॥
-
निस्पृहो नाधिकारी स्यान्नकामी मण्डनप्रियः ।
नाविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वञ्चकः ॥
-
मूर्खाणां पण्डिता द्वैष्याऽधमानां महाधनाः ।
वाराङ्गनाः कुलस्त्रीणां सुभगानां च दुर्भगाः ॥
-
आलस्योपहता विद्या परहस्तगतास्स्त्रियः ।
अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥
-
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्त्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥
-
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपस्सस्त्रिया रक्ष्यते गृहम् ॥
-
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ।
अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥
-
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥
-
जन्ममृत्यु हि यात्येको भुनक्त्येकः शुभाशुभम् ।
नरकेषु पतत्येको एको याति परां गतिम् ॥
-
तृणं ब्रह्मविदस्स्वर्गस्तृणं शूरस्य जीवितम् ।
जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥
-
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥
-
वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम् ।
वृथा दानं धनाड्येषु वृथा दीपो दिवापि च ॥
-
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥
-
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
-
चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥
-
नराणां नापितो धूर्तः पक्षीणां चैव वायसः ।
चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥
-
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।
नास्ति चक्षुस्स्मो तेजो नास्ति दान्यसमो प्रियम् ॥
षष्ठोऽध्यायः
-
शृत्वा धर्मं विजानाति शृत्वा त्यजति दुर्मतिम् ।
शृत्वा ज्ञानमवाप्नोति शृत्वा मोक्षमाप्नुयात् ॥
-
पक्षीणां काकश्चण्डालः पशूनां चैव कुक्कुरः ।
मुनीनां कोपी चण्डालस्सर्वेषां चैव निन्दकः ॥
-
भस्मना शुद्धयते कांस्यं ताम्रमाम्लेन शुद्ध्यति ।
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यते ॥
-
भ्रमन् संपूज्यते राजा भ्रमन् संपूज्यते द्विजः ।
भ्रमन् संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥
-
कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥
-
न पश्यति जन्मान्धः कामान्धो नैव पश्यति ।
न पश्यति मदोन्मत्तो स्वार्थी दोषान्न पश्यति ॥
-
स्वयं कर्मकरोत्यात्मा स्वयं तत्फलमश्नुते ।
स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥
-
राजा राष्ट्रकृतं भुङ्क्ते राज्ञाः पापं पुरोहितः ।
भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥
-
ऋणकर्ता पिता शत्रुः माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रश्श्त्रुरपण्डितः ॥
-
लुब्धमर्थेन गृह्णीयात् स्तब्दमञ्जलिकर्मणा ।
मूर्खश्छन्दोनुवृत्तेन यथार्यत्वेन पण्डितम् ॥
-
वरं न राज्यं न कुराजराज्यं
वरं न मित्रं नकुमित्रमित्रम् ।
वरं शिष्यो न कुशिष्यशिष्यो
वरं न दारा कुदारदाराः ॥
-
कुराजराज्येन कुतः प्रजासुखम्
कुमित्रमित्रेण कुतोस्ति निर्वृतिः ।
कुदारदारैश्च कुतो गृहे रतिः
कुशिष्यमध्यापयतो कुतो यशः ॥
-
प्रभुत्वं कार्यमल्पं वा यन्नरः कर्तुमिच्छति ।
सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥
-
इन्द्रियाणि च संयम्य बकवत् पण्डितो नरः ।
देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥
-
प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु ।
स्वयमाक्रम्य भुक्तिश्च शिक्षेच्चत्वारि कुक्कुटात् ॥
-
गूढमैथुनचारित्वं काले काले च संग्रहम् ।
अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥
-
बह्वाशी स्वल्पसंतुष्टः सुनिद्रो लघुचेतनः ।
स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥
- सुश्रान्तोपि वहेद्भारं शीतोष्णं न च पश्यति ।
संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥
सप्तमोध्यायः
- अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनञ्चापमानं च मतिमान्न प्रकाशयेत् ॥
- धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥
- सन्तोषामृत तृप्तानां यत्सुखं शान्तचेतसाम् ।
न च तद्धनलुब्धानां इतशेतश्च धावताम् ॥
- सन्तोषस्त्रिषु कर्तव्यः स्वदरे भोजने धने ।
त्रिषु चैव न कर्तव्यो अध्ययने तपदानयोः ॥
- पादाभ्यां न स्पृषेदग्निं गुरुं ब्राह्मणमेव च ।
नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥
- शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् ।
हस्तिनं दशहस्तेन देशत्यागेन दुर्जनम् ॥
- हस्ती चाङ्कुषमात्रेण वाजी हस्तेन ताड्यते ।
शृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥
- तुष्यन्ति भोजने विप्रा मयूरा घनगर्जने ।
साधवः परसम्पत्तौ खलः परविपत्तिषु ॥
- अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥
- विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः ।
अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥
- बाहुवीर्यं बलं राज्ञो ब्राह्मणो ब्रह्मविद्बली ।
रूपयौवनलावण्यं स्त्रीणां च बलमुत्तमम् ॥
- नात्यंतं सरलैर्भाव्यं गत्वा पश्यवनस्थलीम् ।
छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥
- यत्रोदकं तत्र वसन्ति हंसाः
तथैव शुष्कं परिवर्जयन्ति ।
न हंसतुल्येन नरेण भाव्यं
पुनस्त्यजन्ति पुनराश्रयन्ति ॥
- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवम्भसाम् ॥
- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थास्स पुमान् लोके यस्यार्थास्स हि जीवति ॥
- स्वर्गस्थितानामिह जीवलोके
चत्वारि चिह्नानि वसन्ति देहे ।
दानप्रसङ्गो मधुरा च वाणी
देवार्चनं ब्राह्मणतर्पणं च ॥
- अत्यन्तकोपः कटुका च वाणी
दरिद्रता च स्वजनेषु वैरम् ।
नीचप्रसङ्गः कुलहीनसेवा
चिह्नानि देहे नरकस्थितानाम् ॥
- गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपोलमौक्तिकम् ।
जम्बिकालयगते च प्राप्यते वत्सपुच्छखरचर्मखण्डनम् ॥
- शुनः पुच्छमिवव्यर्थं जीवितं चिद्यया विना ।
न गुह्यगोपने शक्तं न च दंशनिवरणे ॥
-
वाचं शौचं च मनसः शौचमिन्द्रियनिग्रहः ।
सर्वभूते दया
शौचं एतच्छौचं परार्थिनाम् ॥
-
पुष्पे गन्धं तिले तैलं कष्ठेग्निं पयसि घृतम् ।
इक्षौ गुढं तथा देहे पश्यात्मानं विवेकतः ॥
अष्टमोध्यायः
- अधनाधनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
-
इक्षुरापः पयोमूलं ताम्बूलं फलमौषधम् ।
भक्षयित्वापि कर्तव्या स्नानदानादिकाः क्रियाः ॥
-
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥
-
वित्तं देहि गुणान्वितेषु वतिमन्नान्यत्र देहि क्वचित्
प्रप्तं वारिनिधेर्जलं धनमुखे माधुर्ययुक्तं सदा ।
जीवन्स्थावरजङ्गमान् च सकलान् संजीव्य भूमण्डलम्
भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भो विधिम् ॥
- तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चण्डालो यावत् स्नानं न चाचरेत् ॥
-
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि भोजनान्ते विषप्रदम् ॥
- हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।
हतं निर्नायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥
- वृद्धकाले मृता भार्या बन्धुहस्ते गतं धनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥
-
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्ध्या च तयासिद्धस्तस्य विष्णुः प्रसीदति ॥
-
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥
-
शान्तितुल्यं तयो नास्ति न संतोषात्परं सुखम् ।
न तॄष्णायाः परो व्याधिर्न च धर्माद्दया परम् ॥
-
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
विद्या कामदुधा धेनुः सन्तोषो नन्दनं वनम् ॥
-
गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ॥
-
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या अभोगेन हतं धनम् ॥
-
शुचिर्भूमिगतं तोयं शुद्धा नारी पतिव्रता ।
शुचिः क्षेमकरो राजा सन्तोषी ब्राह्मणो शुचिः ॥
-
किं कुलेन विशालेन विद्याहीनेन देहिनाम्
दुष्कुलीनोऽपि विद्वांश्च देवैरपि सुपूज्यते ॥
-
विद्वान् प्रशस्यते लोके विद्वान् गच्छति गौरवम् ।
विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥
-
मांसभक्षैस्सुरापानैर्मूर्खैश्चाक्षरवर्जितैः ।
पशुभिः पुरुषाकारैर्भारा श्रान्ता च मेदिनी ॥
-
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीन्श्च ऋत्विजः ।
यजमाने दानहीने नास्ति यज्ञसमो रिपुः ॥
नवमोध्यायः
-
मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।
क्षमार्जवं दया शौचं सत्यं पीयूषवद्भज ॥
-
परस्परस्य मर्माणि ये भाषन्ते नराधमाः ।
त एवं विलयं यान्ति वल्मिकोदरसर्पवत् ॥
-
गन्धः सुवर्णे फलमिक्षुदण्डे नाकारिपुष्पं खलु चन्दनस्य ।
विद्वान् धनाढ्यश्च नृपश्चिरायुः दातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥
-
सर्वोषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानं ।
सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥
-
दूतो न सञ्चरति खे न चलेच्च वार्ता
पूर्वं न जल्पितमिदं न च संगमोस्ति ।
व्योम्निस्थितं रविचन्द्रग्रहणं प्रशस्तं
जानाति यो द्विजवरः स कथं न विद्वान् ॥
-
विद्यार्थी सेवकः पान्थाः क्षुधार्तो भयकातरः ।
भण्डारी प्रतिहारी च सप्तसुप्तान् प्रबोधयेत् ॥
-
अहिं नृपं च शार्दूलं कीटं च बालकं तथा ।
परश्वानं च मूर्खं च सप्तसुप्तान् न बोधयेत् ॥
-
अर्थाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजिनाः ।
ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥
-
यस्मिन् रुष्टे भयं नास्ति नास्ति तुष्टे धनागमः
निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥
-
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥
-
स्वहस्त ग्रथिता माला स्वहस्तघृष्टचन्दनम् ।
स्वहस्त लिखितं स्तोत्रं शक्रस्यापि प्रियं भरेत् ॥
-
इक्षुदण्डास्तिलाश्शूद्राः कान्ता हेमं च मेदिनी ।
चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥
-
दरिद्रता धीरतमा विराजते कुवस्त्रता शुभ्रतमा विराजते ।
कदन्नता कोष्णतया विराजते कुरूपता शीलतमा विराजते ॥
दशमोध्यायः
-
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारत्नेन यो हीनः स हीनः सप्तवस्तुषु ॥
-
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥
-
कवयःकिं न पश्यन्ति किं न कुर्वन्ति योषितः ।
मद्यपाः किं न जल्पन्ति किं न भक्षन्ति वायसाः ॥
-
रङ्कं करोति राजानं राजानं रङ्कमेव च ।
धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥
-
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ।
सुखार्थिनः कुतो विद्या विद्यार्थिनः कुतो सुखम् ॥
-
लुब्धानां याचकश्श्त्रुर्मूर्खानां बोधको रिपुः ।
जारस्त्रीणां पतिश्शत्रुश्चोराणां चन्द्रमा रिपुः ॥
-
येषां न चिद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूताः
मनुष्यरूपेण मृगाश्चरन्ति ॥
-
अन्तस्सारविहीनानां उपदेशो न जायते ।
मलयाचलसंसर्गान्नवेणुश्चन्दनायते ॥
-
यस्य नास्ति स्वयम्प्रज्ञा शस्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणं किं करिष्यति ॥
-
दुर्जनं सज्जनं कर्तुं उपायो न हि भूतले ।
अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥
- आत्मद्वेषाद्भवेन्मृत्य्ः परद्वेषाद्धनक्षयः ।
उआजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषाद्कुलक्षयः ॥
-
वर्ं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयं पत्रफलाम्बुभोजनम् ।
तृणेषु शय्या शतजीर्णवल्कलं
न बन्धुमध्ये धनहीनजीवनम् ॥
-
विप्रो वृक्षस्तस्य मूलं च सन्ध्या
वेदाः शाखा धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्नतो रक्षणीयं
छिन्ने मूले नैव शाखा न पत्रम् ॥
-
एकवृक्षसमारूढाः नावर्णा विहङ्गमाः ।
प्रभाते दशसु दिक्षु तत्र का परिवेदना ॥
-
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥
-
शाकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥
