पताकस्त्रिपताकोर्धपताकः कर्तरीमुखः ।

मयूराख्योर्धचन्द्रश्चाप्यरालश्शुकतुण्डकः ॥


सूचीचन्द्रकलापद्मकोशः सर्पशिरस्तथा ।

मुष्टिश्चशिखराख्यश्च कपित्थकटकामुखः ॥


मृगशीर्षस्सिंहमुखः लाङ्गूलश्चालपद्मकः ।

चतुरोभ्रमरश्चैव हंसास्योहंसपक्षकः ॥


संदंशोमुकुलश्चैव ताम्रचूडस्त्रिशूलकः ।

अश्टाविंशतिहस्तानामेवं नामानि वै क्रमात् ॥