अन्धपरम्परा

यदा कोऽपि जनः स्वबुद्ध्या अविचार्य अन्धः इव अन्येषाम् अनुकरणं
करोति तदा एषः न्यायः प्रयुज्यते । सः न चिन्तयति यत् अनुकरणं स् स्वम् अन्धकारं
प्रति नयति इति ।

अरुन्धतीदर्शनन्यायः

यः अरुन्धतीनामकं तारकं प्रदर्शयितुम् इच्छति सः पूर्वम्
अरुन्धत्याः समीपस्थं स्थूलम् अमुख्यं तारकं निर्दिशति । पश्चात् अरुन्धतीं
ग्राह्यति । एवं यदा सूक्ष्मः पदार्थः स्थूलेन पदार्थेन निर्दिश्यते तदा एषः
न्यायः प्रयुज्यते ।

स्थालीपुलाकन्यायः

यः ओदनं पचति सः ओदनः पक्वः न वा इति ज्ञातुं स्थाल्यां
विद्यमानेभ्यः पुलाककणेभ्यः कमपि एकं सङ्गृह्य परिक्षते । एकस्य कणस्य परीक्षणेन
एव सर्वस्य ज्ञानं भवति । अत्र प्रत्येकं कणस्य परीक्षणस्य आवश्यकता न भवति । एवं
परीक्षणविषयकीं व्यक्तिं निर्देष्टुम् एषः न्यायः प्रयुज्यते ।

काकतालीयन्यायः

कश्चित् काकः यदा तलवृक्षस्य समीपम् आगच्छत् तदा एव तस्मात्
वृक्षात् पक्वं फलं अधः न्यपतत् । काकः तच्च फलं खादित्वा सन्तुष्टः अभवत् । एवम्
अकस्मादेव अविचिन्तितरूपेण घटनाद्वयं प्रवर्तते तदा एषः न्यायः प्रयुज्यते ।

घट्टकुटीप्रभातन्यायः

कथ्यते यत् शकटवान् वणिकः कश्चन करं दातुं न इच्छति स्म ।
राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठद्भ्यः अधिकारिभ्यः करः दातव्यः भवति इति
चिन्तयित्वा सः तं मार्गं परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः ।
किन्तु इतस्ततः अटन् सः दौर्भाग्येन प्रभाते घट्टाकुटीसमीपम् एव आगत्य अतिष्ठत् ।
विवशः सः करं दत्तवान् । कार्यं परिहर्तुम् इच्छायां सत्याम् अपि तत् अन्ततो
गत्वा यदा अवशं करणीयं भवति तदा एषः न्यायः प्रयुज्यते ।

Advertisements