प्रथमोध्यायः

 

  1. प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् ।

    नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥

     

  2. अधीत्येदं तथा शास्त्रं नरो जानाति सत्तमः ।

    धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥

     

  3. तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया ।

    यो हि विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते ॥

     

  4. मूर्खशिष्योपदेशेण दुष्टस्त्री भरणेन च ।

    दुःखितैः संप्रयोगेण पण्डितोप्यवसीदति ॥

     

  5. दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।

    ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥

     

  6. आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि ।

    आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥

     

  7. आपदर्थे धनं रक्षतां श्रीमतां कुत आपदः।

    कदाचिच्चलते लक्ष्मीः संचितोपि विनश्यति ॥

     

  8. यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः ।

    न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥

  9. धनिकः श्रोत्रियो राजा नदी वैद्यश्च पण्डितः ।

    पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥

     

  10. लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।

    पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥

     

  11. जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे

    मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥

     

  12. आतुरे व्यसने प्राप्ते दुर्भिक्षे शतृसंकटे ।

    राजद्वारे स्मशाने च यस्तिष्ठति स बान्धवः ॥

     

  13. यो ध्रुवाणि परित्यज्य आध्रुवम् परिषेवते ।

    ध्रुवाणि तस्य नश्यन्ति आध्रुवं नष्टमेव च ॥

     

  14. वरयेत् कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।

    रूपवतीं न नीचस्य विवाहः सदृशे कुले ॥

     

  15. नखीनां च नदीनां च शृङ्गीणां शस्त्रधारिणाम् ।

    विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥

     

  16. विषादप्यमृतं ग्राह्यममिध्यादपि काञ्चनम् ।

    नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥

     

  17. स्त्रीणां द्विगुण आहारो बुद्धिस्तासां चतुर्गुणा ।

    साहसं शड्गुणं चैव कामोष्टगुण उच्यते ॥

    द्वितीयोध्यायः

     

  18. अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।

    अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥

     

  19. भोज्यं भोजनशक्तिश्च रति शक्तिर्वराङ्गना ।

    विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥

     

  20. यस्य पुत्रो वशीभूतो भार्या पन्थानुगामिनी ।

    विभवे यश्च संतुष्टस्तस्य स्वर्ग इहैव हि ॥

     

  21. ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः ।

    तन्मित्रं यस्य विश्वासः सा भार्या या तु निर्वृतिः ॥

     

  22. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनं ।

    वर्जयेत् तादृशं मित्रं विषकुम्भं पयॊमुखम् ॥

     

  23. न विश्वसेत् कुमित्रे च मित्रे चापि न विश्वसेत् ।

    कदाचित् कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥

     

  24. मनसा चिन्तितं कार्यं वाचा नैव प्रकाषयेत् ।

    मत्रेण रक्षयेत् गूढं कार्ये चापि नियोजयेत् ॥

     

  25. कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।

    कष्टात् कष्टतरं चैव परगेहनिवासनं ॥

     

  26. शैले शैलेन माणिक्यं मौक्तिकं न गजे गजे ।

    साधवो न हि सर्वत्र चन्दनं न वने वने ॥

     

  27. पुत्राश्च विविधैश्शीलैर्नियोज्याः सततं बुधैः ।

    नीतिज्ञा शीलसम्पन्ना भवन्ति कुल पूजिताः ॥

     

  28. माता स्त्रुः पिता वैरी याभ्यां बाला न पाठिताः ।

    सभा मध्ये न शॊभन्ते लंस मध्ये बको यथा ॥

     

  29. लालने बहवो दोषास्ताडने बहवो गुणाः ।

    तस्मात्पुत्रं च शिष्यं च नाडयेन्न तु लालयेत् ॥

     

  30. श्लोकेन वा तदर्धेन तदर्धाक्षरेन वा ।

    अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मभिः ॥

     

  31. कान्तावियोतः स्वजनापमानं

    ऋणस्यशेषं कुनृपस्य सेवा ।

    दारिद्र्यभावो विमुखं च मित्रं

    विनाग्नितैते प्रदहन्ति कायम् ॥

     

  32. नदीतीरे च ये वृक्षाः परगेहेषु कामिनी ।

    मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयः ॥

  33. बलं विद्या च विप्राणां राज्ञा सैन्यं बलं तथा ।

    बलं वित्तं च वैश्यानां शूद्राणां आरिचर्यकं ॥

     

  34. निर्धनं पुरुषं वेष्या पाजा भग्नं नृपं त्यजेत् ।

    खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागता गृहम् ॥

     

  35. गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।

    प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥

     

  36. दुराचारी दुरादृष्टिर्दुरावासी च दुर्ज्जनः ।

    यन्मैत्री क्रियते पुंभिर्नरः शीघ्रं विनश्यति ॥

     

  37. समाने शोभते प्रीतिर्राज्ञि सेवा च शोभते ।

    वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥

     

    तृतीयोध्यायः

     

  38. कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।

    व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥

     

  39. आचारः कुलमाख्याति देशमाख्याति भाषणम् ।

    संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥

     

  40. सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् ।

    व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत् ॥

     

  41. दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।

    सर्पो दंशति कलेन दुर्जनस्तु पदे पदे ॥

     

  42. एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।

    आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥

     

  43. प्रलये भिन्नमर्यादा भवन्ति किल सागराः ।

    सागरा भेदमिच्चन्ति प्रलये चापि साधवः ॥

     

  44. मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।

    भिनत्ति वाक्यशल्येनादृष्टः कण्ठशो यथा ॥

     

  45. रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।

    विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥

     

  46. कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ।

    विद्यारूपं कुरूपाणां क्षमारूपं तपस्विनाम् ॥

     

  47. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।

    ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥

     

  48. उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।

    मौने च कलहो नास्ति नास्ति जागरिते भयम् ॥

     

  49. अति रूपेण वै सीता अति गर्वेण रावणः ।

    अतिदानाद्बलिर्बद्धो अति सर्वत्र वर्जयेत् ॥

     

  50. कोहि भारः समर्थानां किं दूरं व्यवसायिनाम् ।

    को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥

     

  51. एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिन ।

    वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥

     

  52. एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।

    दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥

     

  53. किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः ।

    वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥

     

  54. लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् ।

    प्राप्ते तु शोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥

     

  55. उपसर्गेन्यचक्रे च दुर्भिक्षे च भयावहे ।

    असाधुजनसम्पर्के यः पलायति स जीवति ॥

     

  56. धर्मार्थकाममोक्षाणां यस्य कोऽपि न विद्यते ।

    जन्म जन्मनि मर्त्येषु मरणं तस्य केवलम् ॥

     

  57. मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।

    दम्पत्योः कलहो नास्ति तत्र श्रीः स्वयमागता ॥

     

    चतुर्थोऽध्यायः

     

  58. आयुः कर्म च वित्तं च विद्या निधनमेव च ।

    पञ्चैतानि हि सृज्यन्ते गर्भस्तस्यैव देहिनः ॥

     

  59. साधुभ्यस्ते निवर्तन्ते पुत्रा वित्राणि बान्धवाः ।
    ये च तैस्सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥

  60. दर्शनध्यानसंस्पर्शैः मत्स्यी कूर्मी च पक्षिणी ।
    शिशुं पालयते नित्यं तथा सज्जनसंगतिः ॥

  61. यावत्स्वस्थो ह्ययं देहो यवन्मृत्युश्च दूरतः ।
    तावदात्माहितं कुर्यात्प्राणान्ते किं करिष्यति ॥

  62. कामधेनुफला विद्या ह्यकाले फलदायिनी ।
    प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥

  63. वरमेको गुणी पुत्रो निर्गुणैश्च शतैरपि ।
    एकश्चन्द्रतमो हन्ति न च तारास्सहस्रशः ॥

     

  64. मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः ।
    मृतः स चाल्पदुःखाय यवज्जीवं जडो दहेत् ॥
  65. कुग्राम वासः कुलहीनसेवा
    कुभोजनं क्रोधमुखी च भार्या ।
    पुत्रश्च मूर्खो विधवा च कन्या
    विनाग्निना षट्प्रदहन्ति कायम् ॥
  66. किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।
    कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥

     

  67. संसारतापदग्धानां त्रयो विश्रान्तिहेतवः ।
    अपत्यं च कलत्रं च सतां संगतिरेव च ॥

     

  68. सकृज्जल्पन्ति राजानस्सकृज्जल्पन्ति पण्डिताः ।
    सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥

     

  69. एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
    चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभिर्रणः ॥

     

  70. सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता ।
    सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥

     

  71. अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
    मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥

     

  72. अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् ।
    दिरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥

     

  73. त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् ।
    त्यजेत्क्रोधमुखीं भार्यां निस्स्नेहान् बान्धवान्स्त्यजेत् ॥

     

  74. अध्वा जरा मनुष्याणां वाजिनां बन्धनं जरा ।
    अमैथुनं जरा स्त्रीणां वस्त्राणामतपो जरा ॥

     

  75. कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
    कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥

     

  76. जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
    अन्नदाता भयत्राता पञ्चैते पितरस्स्मृताः ॥

     

  77. राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
    पत्नीमाता स्वमाता च पञ्चैता मातरस्स्मृताः ॥

     

  78. अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
    प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥

     

     

     

    पञ्चमोऽध्यायः

     

  79. गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
    पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥

     

  80. यथा चतुर्भिः कनकं परीक्ष्यते
    निघर्षणच्छेदनतापताडनैः ।
    तथा चतुर्भिः पुरुषः परीक्ष्यते
    त्यागेन शीलेन गुणेन कर्मणा ॥

     

  81. तावत् भयेषु भीतव्यं यावत् भयमनागतम् ।
    आगतं तु भयं दृष्ट्वा प्रहर्तव्यमशंकया ॥

     

  82. एकोदरसमुद्भूता एकनक्षत्रजातकाः ।
    न भवन्ति समाश्शीले यथा बदरिकण्टकाः ॥

     

  83. निस्पृहो नाधिकारी स्यान्नकामी मण्डनप्रियः ।
    नाविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वञ्चकः ॥

     

  84. मूर्खाणां पण्डिता द्वैष्याऽधमानां महाधनाः ।
    वाराङ्गनाः कुलस्त्रीणां सुभगानां च दुर्भगाः ॥

     

  85. आलस्योपहता विद्या परहस्तगतास्स्त्रियः ।
    अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥

     

  86. अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्त्यते ।
    गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥

     

  87. वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
    मृदुना रक्ष्यते भूपस्सस्त्रिया रक्ष्यते गृहम् ॥

     

  88. दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ।
    अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥

     

  89. नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
    नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥

     

  90. जन्ममृत्यु हि यात्येको भुनक्त्येकः शुभाशुभम् ।
    नरकेषु पतत्येको एको याति परां गतिम् ॥

     

  91. तृणं ब्रह्मविदस्स्वर्गस्तृणं शूरस्य जीवितम् ।
    जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥

     

  92. विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
    व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥

     

  93. वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम् ।
    वृथा दानं धनाड्येषु वृथा दीपो दिवापि च ॥

     

  94. अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
    मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥

     

  95. सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
    सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

     

  96. चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् ।
    चलाचले च संसारे धर्म एको हि निश्चलः ॥

     

  97. नराणां नापितो धूर्तः पक्षीणां चैव वायसः ।
    चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥

     

  98. नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।
    नास्ति चक्षुस्स्मो तेजो नास्ति दान्यसमो प्रियम् ॥

     

     

    षष्ठोऽध्यायः

     

  99. शृत्वा धर्मं विजानाति शृत्वा त्यजति दुर्मतिम् ।
    शृत्वा ज्ञानमवाप्नोति शृत्वा मोक्षमाप्नुयात् ॥

     

  100. पक्षीणां काकश्चण्डालः पशूनां चैव कुक्कुरः ।
    मुनीनां कोपी चण्डालस्सर्वेषां चैव निन्दकः ॥

     

  101. भस्मना शुद्धयते कांस्यं ताम्रमाम्लेन शुद्ध्यति ।
    रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यते ॥

     

  102. भ्रमन् संपूज्यते राजा भ्रमन् संपूज्यते द्विजः ।
    भ्रमन् संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥

     

  103. कालः पचति भूतानि कालः संहरते प्रजाः ।
    कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥

     

  104. न पश्यति जन्मान्धः कामान्धो नैव पश्यति ।
    न पश्यति मदोन्मत्तो स्वार्थी दोषान्न पश्यति ॥

     

  105. स्वयं कर्मकरोत्यात्मा स्वयं तत्फलमश्नुते ।
    स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥

     

  106. राजा राष्ट्रकृतं भुङ्क्ते राज्ञाः पापं पुरोहितः ।
    भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥

     

  107. ऋणकर्ता पिता शत्रुः माता च व्यभिचारिणी ।
    भार्या रूपवती शत्रुः पुत्रश्श्त्रुरपण्डितः ॥

     

  108. लुब्धमर्थेन गृह्णीयात् स्तब्दमञ्जलिकर्मणा ।
    मूर्खश्छन्दोनुवृत्तेन यथार्यत्वेन पण्डितम् ॥

     

  109. वरं न राज्यं न कुराजराज्यं
    वरं न मित्रं नकुमित्रमित्रम् ।
    वरं शिष्यो न कुशिष्यशिष्यो
    वरं न दारा कुदारदाराः ॥

     

  110. कुराजराज्येन कुतः प्रजासुखम्
    कुमित्रमित्रेण कुतोस्ति निर्वृतिः ।
    कुदारदारैश्च कुतो गृहे रतिः
    कुशिष्यमध्यापयतो कुतो यशः ॥

     

  111. प्रभुत्वं कार्यमल्पं वा यन्नरः कर्तुमिच्छति ।
    सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥

     

  112. इन्द्रियाणि च संयम्य बकवत् पण्डितो नरः ।
    देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥

     

  113. प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु ।
    स्वयमाक्रम्य भुक्तिश्च शिक्षेच्चत्वारि कुक्कुटात् ॥

     

  114. गूढमैथुनचारित्वं काले काले च संग्रहम् ।
    अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥

     

  115. बह्वाशी स्वल्पसंतुष्टः सुनिद्रो लघुचेतनः ।
    स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥

     

  116. सुश्रान्तोपि वहेद्भारं शीतोष्णं न च पश्यति ।
    संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥

 

सप्तमोध्यायः

 

  1. अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
    वञ्चनञ्चापमानं च मतिमान्न प्रकाशयेत् ॥

  2. धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च ।
    आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥

  3. सन्तोषामृत तृप्तानां यत्सुखं शान्तचेतसाम् ।
    न च तद्धनलुब्धानां इतशेतश्च धावताम् ॥

  4. सन्तोषस्त्रिषु कर्तव्यः स्वदरे भोजने धने ।
    त्रिषु चैव न कर्तव्यो अध्ययने तपदानयोः ॥

  5. पादाभ्यां न स्पृषेदग्निं गुरुं ब्राह्मणमेव च ।
    नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥

  6. शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् ।
    हस्तिनं दशहस्तेन देशत्यागेन दुर्जनम् ॥

  7. हस्ती चाङ्कुषमात्रेण वाजी हस्तेन ताड्यते ।
    शृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥

  8. तुष्यन्ति भोजने विप्रा मयूरा घनगर्जने ।
    साधवः परसम्पत्तौ खलः परविपत्तिषु ॥

  9. अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
    आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥

  10. विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः ।
    अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥

  11. बाहुवीर्यं बलं राज्ञो ब्राह्मणो ब्रह्मविद्बली ।
    रूपयौवनलावण्यं स्त्रीणां च बलमुत्तमम् ॥

  12. नात्यंतं सरलैर्भाव्यं गत्वा पश्यवनस्थलीम् ।
    छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥

  13. यत्रोदकं तत्र वसन्ति हंसाः
    तथैव शुष्कं परिवर्जयन्ति ।
    न हंसतुल्येन नरेण भाव्यं
    पुनस्त्यजन्ति पुनराश्रयन्ति ॥

  14. उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
    तडागोदरसंस्थानां परीवाह इवम्भसाम् ॥

  15. यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
    यस्यार्थास्स पुमान् लोके यस्यार्थास्स हि जीवति ॥

  16. स्वर्गस्थितानामिह जीवलोके
    चत्वारि चिह्नानि वसन्ति देहे ।
    दानप्रसङ्गो मधुरा च वाणी
    देवार्चनं ब्राह्मणतर्पणं च ॥

  17. अत्यन्तकोपः कटुका च वाणी
    दरिद्रता च स्वजनेषु वैरम् ।
    नीचप्रसङ्गः कुलहीनसेवा
    चिह्नानि देहे नरकस्थितानाम् ॥

  18. गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपोलमौक्तिकम् ।
    जम्बिकालयगते च प्राप्यते वत्सपुच्छखरचर्मखण्डनम् ॥

  19. शुनः पुच्छमिवव्यर्थं जीवितं चिद्यया विना ।
    न गुह्यगोपने शक्तं न च दंशनिवरणे ॥

  20. वाचं शौचं च मनसः शौचमिन्द्रियनिग्रहः ।

    सर्वभूते दया
    शौचं एतच्छौचं परार्थिनाम् ॥

  21. पुष्पे गन्धं तिले तैलं कष्ठेग्निं पयसि घृतम् ।
    इक्षौ गुढं तथा देहे पश्यात्मानं विवेकतः ॥

     

 

अष्टमोध्यायः

 

 

  1. अधनाधनमिच्छन्ति धनं मानं च मध्यमाः ।
    उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

  2. इक्षुरापः पयोमूलं ताम्बूलं फलमौषधम् ।
    भक्षयित्वापि कर्तव्या स्नानदानादिकाः क्रियाः ॥

     

  3. दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
    यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥

     

  4. वित्तं देहि गुणान्वितेषु वतिमन्नान्यत्र देहि क्वचित्
    प्रप्तं वारिनिधेर्जलं धनमुखे माधुर्ययुक्तं सदा ।
    जीवन्स्थावरजङ्गमान् च सकलान् संजीव्य भूमण्डलम्
    भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भो विधिम् ॥

     

  5. तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
    तावद्भवति चण्डालो यावत् स्नानं न चाचरेत् ॥


  6. अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
    भोजने चामृतं वारि भोजनान्ते विषप्रदम् ॥

     

  7. हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।
    हतं निर्नायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥

  8. वृद्धकाले मृता भार्या बन्धुहस्ते गतं धनम् ।
    भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥

  9. काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
    श्रद्ध्या च तयासिद्धस्तस्य विष्णुः प्रसीदति ॥

     

  10. न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
    भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥

     

  11. शान्तितुल्यं तयो नास्ति न संतोषात्परं सुखम् ।
    न तॄष्णायाः परो व्याधिर्न च धर्माद्दया परम् ॥

     

  12. क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
    विद्या कामदुधा धेनुः सन्तोषो नन्दनं वनम् ॥

     

  13. गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
    सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ॥

     

  14. निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
    असिद्धस्य हता विद्या अभोगेन हतं धनम् ॥

     

  15. शुचिर्भूमिगतं तोयं शुद्धा नारी पतिव्रता ।
    शुचिः क्षेमकरो राजा सन्तोषी ब्राह्मणो शुचिः ॥

     

  16. किं कुलेन विशालेन विद्याहीनेन देहिनाम्
    दुष्कुलीनोऽपि विद्वांश्च देवैरपि सुपूज्यते ॥

     

  17. विद्वान् प्रशस्यते लोके विद्वान् गच्छति गौरवम् ।
    विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥

     

  18. मांसभक्षैस्सुरापानैर्मूर्खैश्चाक्षरवर्जितैः ।
    पशुभिः पुरुषाकारैर्भारा श्रान्ता च मेदिनी ॥

     

  19. अन्नहीनो दहेद्राष्ट्रं मन्त्रहीन्श्च ऋत्विजः ।

    यजमाने दानहीने नास्ति यज्ञसमो रिपुः ॥

 

 

नवमोध्यायः

 

  1. मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।

    क्षमार्जवं दया शौचं सत्यं पीयूषवद्भज ॥

  2. परस्परस्य मर्माणि ये भाषन्ते नराधमाः ।

    त एवं विलयं यान्ति वल्मिकोदरसर्पवत् ॥

  3. गन्धः सुवर्णे फलमिक्षुदण्डे नाकारिपुष्पं खलु चन्दनस्य ।

    विद्वान् धनाढ्यश्च नृपश्चिरायुः दातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥

     

  4. सर्वोषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानं ।

    सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥

     

  5. दूतो न सञ्चरति खे न चलेच्च वार्ता
    पूर्वं न जल्पितमिदं न च संगमोस्ति ।

    व्योम्निस्थितं रविचन्द्रग्रहणं प्रशस्तं
    जानाति यो द्विजवरः स कथं न विद्वान् ॥

     

  6. विद्यार्थी सेवकः पान्थाः क्षुधार्तो भयकातरः ।

    भण्डारी प्रतिहारी च सप्तसुप्तान् प्रबोधयेत् ॥

     

  7. अहिं नृपं च शार्दूलं कीटं च बालकं तथा ।

    परश्वानं च मूर्खं च सप्तसुप्तान् न बोधयेत् ॥

     

  8. अर्थाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजिनाः ।

    ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥

     

  9. यस्मिन् रुष्टे भयं नास्ति नास्ति तुष्टे धनागमः
    निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥

     

  10. निर्विषेणापि सर्पेण कर्तव्या महती फणा ।

    विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥

     

  11. स्वहस्त ग्रथिता माला स्वहस्तघृष्टचन्दनम् ।

    स्वहस्त लिखितं स्तोत्रं शक्रस्यापि प्रियं भरेत् ॥

     

  12. इक्षुदण्डास्तिलाश्शूद्राः कान्ता हेमं च मेदिनी ।

    चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥

     

  13. दरिद्रता धीरतमा विराजते कुवस्त्रता शुभ्रतमा विराजते ।

    कदन्नता कोष्णतया विराजते कुरूपता शीलतमा विराजते ॥

     

     

दशमोध्यायः

 

  1. धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।

    विद्यारत्नेन यो हीनः स हीनः सप्तवस्तुषु ॥

     

  2. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।

    शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥

     

  3. कवयःकिं न पश्यन्ति किं न कुर्वन्ति योषितः ।

    मद्यपाः किं न जल्पन्ति किं न भक्षन्ति वायसाः ॥

     

  4. रङ्कं करोति राजानं राजानं रङ्कमेव च ।

    धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥

     

  5. सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ।

    सुखार्थिनः कुतो विद्या विद्यार्थिनः कुतो सुखम् ॥

     

  6. लुब्धानां याचकश्श्त्रुर्मूर्खानां बोधको रिपुः ।

    जारस्त्रीणां पतिश्शत्रुश्चोराणां चन्द्रमा रिपुः ॥

     

  7. येषां न चिद्या न तपो न दानं
    ज्ञानं न शीलं न गुणो न धर्मः ।

    ते मर्त्यलोके भुवि भारभूताः
    मनुष्यरूपेण मृगाश्चरन्ति ॥

     

  8. अन्तस्सारविहीनानां उपदेशो न जायते ।

    मलयाचलसंसर्गान्नवेणुश्चन्दनायते ॥

     

  9. यस्य नास्ति स्वयम्प्रज्ञा शस्त्रं तस्य करोति किम् ।

    लोचनाभ्यां विहीनस्य दर्पणं किं करिष्यति ॥

     

  10. दुर्जनं सज्जनं कर्तुं उपायो न हि भूतले ।

    अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥

     

  11. आत्मद्वेषाद्भवेन्मृत्य्ः परद्वेषाद्धनक्षयः ।
    उआजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषाद्कुलक्षयः ॥
  12. वर्ं वनं व्याघ्रगजेन्द्रसेवितं
    द्रुमालयं पत्रफलाम्बुभोजनम् ।
    तृणेषु शय्या शतजीर्णवल्कलं
    न बन्धुमध्ये धनहीनजीवनम् ॥

     

  13. विप्रो वृक्षस्तस्य मूलं च सन्ध्या
    वेदाः शाखा धर्मकर्माणि पत्रम् ।
    तस्मान्मूलं यत्नतो रक्षणीयं
    छिन्ने मूले नैव शाखा न पत्रम् ॥

     

  14. एकवृक्षसमारूढाः नावर्णा विहङ्गमाः ।
    प्रभाते दशसु दिक्षु तत्र का परिवेदना ॥

     

  15. बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
    वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥

     

  16. शाकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।

    घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥