
संस्कृतम् इति एकस्याः भाषायाः नाम। भारती गीर्वाणी वाक् दैवीवाक् वाणी सुरवाणी देववाणी इत्यादीनि तस्य नामान्तराणि। सामान्यतया सार्वासां भाषाणां रूपद्वयं वर्तते । यत् भाषितरूपं साहित्यरूपं चेति । किन्तु विश्वे इयमेकैव भाषा अस्ति यस्य शास्त्ररूपमपि वर्तते अनादिकालतः । अस्याः प्राचीनत्वं वक्तुं न केनापि शक्तम् ।
नाम्ना एव अस्यार्थः भवति सं-सम्यक् कृतम् । भाषेयं वक्तृषु संस्कारं जनयति वर्धयति च । वाक्यानां निर्माणे स्थिता तार्किकता एनां अद्वितीयभाषात्वं कल्पयति । भाषणसाधनया बुद्धिः विकसितः भवति । अस्यान्यतमं वैशिष्ट्यं वर्तते व्युत्पत्तिशास्त्रम् । प्रत्येकस्य शब्दमात्रस्यापि व्युत्पत्तिः दीयते अस्यां यया शब्दस्य यथार्थतया प्रयोगः स्यात् इति अपेक्षा । यस्यकस्यापि विषयस्य वा विवरणं स्पष्टतया अनया भाषया कर्तुं शक्यते। शब्दसंपत्तिरपि अपारा वर्तते या विश्वे यस्याः कस्याश्चिदपि न वर्तते। विषयेस्मिन् श्लोकोऽपि विद्यते –
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती ।
व्ययतो वृद्धिमाप्नोति क्षयमायाति संचयात् ॥
Want to speak in SANSKRITAM …..!!!!
contact mail: joshi4vedas@gmail.com

महॊदय नमांसि ।
भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ
http://sanskrit.teluguthesis.org/aggregator/sources
अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।
संस्कृतवाणी कृतॆ –
पाण्डुरङ्गशर्मा रामकः
—
संस्कृतवाणी
Sanskrit Aggregator’s Blog